Monday, April 6, 2009


आरण्यकानि
वेदानां भाष्यकर्तासायणाचार्यमतानुसारेण येषामाध्यात्मिकानां ग्रन्थानां मननचिन्तनञ्च
ग्रामनगरयोश्च कोलाहलपूर्णवातावरणे सम्भवं न भूते सत्यरण्यकस्येकान्तशान्तवातावरणयो: च
कृते, वेदेषु निहितानाम् अनेकेषां रहस्याणां येषु उद्घाटनं भूतम्, तथा येषां माध्यमेन प्राणविद्याया:
दार्शनिकं विश्लेषणं कृतम् , तान्येवारण्यकानि नामानि इति ज्ञायन्ते । वस्तुत: आरण्यकग्रन्था:
ब्राह्मणग्रन्थानां पूरका: सन्ति , किन्तु सहैवोपनिषद्ग्रन्थानां प्रारम्भिकभागा: अपि वर्तन्ते ।
ब्राह्मणारण्यकग्रन्थयोश्च विशेषान्तरमिदमेवास्ति यत् - ब्राह्मणग्रन्थानां यज्ञात्यन्तकठिनकर्मकाण्ड-
पूर्णा: सन्ति, यदा यत् आरण्यकग्रन्थानां यज्ञात्यन्तसरलविधिविधानविहिता: सन्ति । यान् यज्ञान्
वानप्रस्थीमुनयश्चापि कर्तुं शक्यन्ते। अत: वयमिद्ं कथितुं शक्यामहे यत् मन्त्रब्राह्मणात्मकवेदस्य
यस्मिन्नंशे आध्यात्मिकतत्त्वानां मीमांसाप्राणविद्याप्रतीकोपासनाश्च विषया: वर्णिता: सन्ति , तदंश:
आरण्यकनाम्ना ज्ञायते । महाभारतादिपर्वस्य कथनमस्ति -
"नवनीतं यथा दध्नो , मलयाच्चन्दनं यथा ।
आरण्यकं च वेदेभ्य : , औषधिभ्योऽमृतं यथा ॥ "
आरण्यकानां मुख्य: प्रतिपाद्य : विषय: प्राणविद्याप्रतीकोपासने च स्त: । एतस्ययो: महत्त्वपूर्णं
विवेचनमस्माभि: ऎतरेयारण्यकतैतरीयारण्यकयो: च प्राप्यते । इत्यस्मिनैतरेयारण्यके अन्तरिक्षवायूश्च
उभौ प्राणरूपकारणस्यैव कार्यं मन्येते स्म । आरण्यकेषु प्राणा: खण्डमुहूर्तदिवरात्रिपक्षमाससंवत्सरादि-
विभिन्नरूपेषु दृष्टा: सन्ति । ऎतरेयारण्यकस्य तु कथनमस्ति यत्
"सर्वा रिच:, सर्वे वेदा:, सर्वे घोषा: एकैव व्याहृति: प्राण एव प्राण रिच: इत्येव विद्यात् ॥" ऎ० आ० (२/२/१०)
ऎतरेयारण्यकस्य निम्नलिखितं अंश: अत्यन्तोपादेयं विद्यते -
"प्राणेन सृष्ट्वान्तरिक्षं च वायुश्च । अन्तरिक्षं वा अनुचरन्ति । अन्तरिक्षमनुश्रृण्वन्ति । वायु: अस्मै पुण्य़ं
गन्धमावहति । एवमैतौ प्राणपितरं परिचरतोऽन्तरिक्षं च वायुश्च ॥"
अनेन कथनेन स्पष्टमस्ति यत् अन्तरिक्षवायू च एतौ उभौ प्राणरूपकारणस्य कार्यौ स्त: । अर्थात्
प्राणपिता वर्तते अन्तरिक्षवायू च एतौ उभौ तस्य पुत्रौ स्त: ।ॠग्वेदस्य पुरूषसूक्तस्यापि एतादृक्
कथनमस्ति - "प्राणाद्वायुरजायत् ……..।ॠग्वेद// पुरूषसूक्त// अर्थात् प्राणाद्वायो: प्रादुर्भावोऽभवत् ।
प्राणादेव सर्वविश्वोऽयमावृत्तम वर्तते -" सर्वे हीदं प्राणेनावृत्तम् । कौषीतक्युपनिषदेति तु
स्पष्ट्कथनमस्ति - यावद्धस्मिन् शरीरे प्राणो वसति तावदायु: //कौषितकि//१२//
अर्थात् यावत्पर्यन्तं अस्मिन् शरीरे प्राणा: निवसन्ति , तावद्कालपर्यन्तमेवायु: अस्ति।
अत: श्रुतिमन्त्रेषु प्राणेभ्य: " गोपा" इति विशेषणस्य प्रयोग : कृत: वर्तते ।
ब्राह्मणोपनिषदानां मध्यवर्तीसाहित्यमारण्यकं विद्यते ।आरण्यकग्रन्था: ब्राह्मणग्रन्थानामेव भाषा-शैल्यां
लिखिता: सन्ति । तेषां ब्राह्मणग्रन्थानां पूरका: इमे आरण्यकग्रन्था: ।आरण्यकग्रन्थानामध्ययनाध्यापनञ्च
ग्रामेभ्य: दूरं भवति स्म । तैतरीयारण्यकस्य भाष्ये कथितं वर्तते -
"अरण्याध्ययनादेतद् आरण्यकमितीर्यते ।
अरण्ये तदधीयीतेत्येवं वाक्यं प्रवक्षते ॥"
भारतीयाश्रमव्यवस्थायां ब्रह्मचर्याश्रमे संहिताग्रन्थ: , गृहस्थाश्रमे ब्राह्मणग्रन्थ: , वानप्रस्थाश्रमे आरण्यकग्रन्थ:
, तथा संन्यासाश्रमे उपनिषदग्रन्थ: इत्यध्ययनं विहितमासीत् । वानप्रस्थी अरण्येषु आगत्य
आरण्यकग्रन्थानामेवाध्ययनमननञ्च करोति स्म । आरण्यकग्रन्थानामध्ययानप्रारंभ: ब्राह्मणग्रन्थानामिव
एवाऽस्ति , किन्तु वर्ण्य- विषयेषु सामान्यन्तरं दृश्यते , क्रमश: रहस्यात्मकदृष्टान्तरूपकाणां वा माध्यमेन
दार्शनिकचिन्तनेषु परिणीताऽस्ति । साधारणत: क्रियाकलापरूपकयुक्तभागारण्यकानि कथ्यन्ते , तथा
दार्शनिकंशोपनिषद् कथ्यते । आरण्यकग्रन्था: धार्मिकक्रियाणां वर्णनं कुर्वन्ति , तथा यत्र-यत्र तेषां रहस्यपूर्ण -
व्याख्याऽपि प्रस्तुतं कुर्वन्ति । वेदभाष्यकारसायणाचार्यस्य कथनमस्ति यत् आरण्यकग्रन्था: साधूनां पाठ्य-
ब्राह्मणग्रन्था: आसन् । प्रो० कीथमतानुसारेण ब्राह्मणग्रन्थानामिवारण्यकग्र्न्थाऽपि पुरोहितवर्गस्य पाठ्यग्रन्था:
आसन् । उभयोरन्तरं मात्र रहस्याणामासीत् यत् ब्राह्मणेषु न भूत्वारण्यकेषु प्राप्ता: भवन्ति ।
रामायणे उल्लेखमस्ति यत् छात्रा: स्वशिक्षापूर्णं कृत्वा त्रयेषु मार्गेषु एकस्य मार्गस्य चयनं कुर्वन्ति स्म -
स्व गुरूणा सहाजीवननिवासम् , गृहस्थ: तथा अरण्यवासी साधु: इति । अस्य तृतीयस्य मार्गस्य अनुशरणकर्ता
वैखानस: , वानप्रस्थी वा कथ्यते स्म। सम्भवत: अस्य मार्गस्य मनुष्याणां कृते आरण्यकग्रन्थानामध्ययनं
विहितमासीत् । सम्प्रति कतिपयारण्यकग्रन्थानां संक्षिप्तपरिचयं प्रस्तुतं क्रियते -
ऋग्वेदस्यारण्यकग्रन्था: ---->
ॠग्वेदस्य द्वौ आरण्यकग्रन्थौ स्त: - (१) ऎतरेयारण्यकम् (२) कौषीतकि-आरण्यकम्
(१) ऎतरेयारण्यकम् --->
ऎतरेयारण्यकस्य संबंध: ऎतरेयाब्राह्मणेन सह वर्तते । एतस्य पञ्चखण्डा: प्राप्यन्ते । द्वितीयखण्ड:
तृतीयखण्ड: चेति उपनिषदिति कथितुं शक्यते । द्वितीयखण्डस्योत्तरार्द्धस्य चतुर्थपरिच्छेदे वेदान्तस्य
प्रतिपादनं वर्तते । एतस्मात् अयं ऎतरेयोपनिषद् कथ्यते । ऎतरेयारण्यकस्य प्रथमारण्यके महाव्रतम् ,
द्वितीये उक्थशस्त्रप्राणविद्यापुरूषश्चेति विवेचनं वर्तते । तृतीये आरण्यके ध्वनिस्वरूपस्य विवेचनं वर्तते ।
चतुर्थे तथा पञ्चमे अन्यविषयै: सह निष्कैवल्यशास्त्रस्य वर्णनं विद्यते । केचन विद्वांस: उपर्युक्तपञ्चखण्डयु-
क्तपञ्चारण्यकान्येव मन्यन्ते । एतेषां मतानुसारेण पञ्चारण्यकानां संश्लिष्टरूपमेव ऎतरेयारण्यकमस्ति ।
(२) कौषीतकि-आरण्यकम् --->
रिग्वेदस्य द्वितीयमारण्यकं कौषीतकि सांख्यायनं वा वर्तते । अस्य त्रयखण्डा: सन्ति । प्रथमे खण्डे तथा
द्वितीये खण्डे कर्मकाण्डीयतथ्या: संन्निविष्टा: सन्ति । तृतीयं खण्डं कौषीतकि-उपनिषदिति कथ्यते ।
पञ्चदशसंख्यका: अध्याया: सन्ति
यजुर्वेदस्यारण्यकग्रन्था: ---->
शुक्लयजुर्वेदस्य केवलं बृहदारण्यकं प्राप्तं भवति । इत्यस्मिनात्मतत्त्वानां विशद्-विवेचनं वर्तते ।
कृष्णयजुर्वेदेन संबन्धितं तैतरीयारण्यकमस्ति ।इत्यस्मिन् द्शकाप्यसंलग्ना: सन्ति । काठकशाखायां
निर्दिष्टारणीयविधेरप्यस्मिन् ग्रन्थे विचारभूताऽस्ति । इत्यस्मिन् तृतीये प्रपाठके यज्ञाग्ने: स्थापनाया:
नियम: वर्तते ।द्वितीये प्रपाठके अध्ययनस्य नियम: वर्तते । चतुर्थपञ्चषष्ठप्रपाठकेषु दर्शपूर्णमासादिपितृ-
मेधादिविषयाणां विचारं कृतं वर्तते । अस्य सप्ताष्टनवप्रपाठका: उपनिषद्नाम्ना ज्ञायते , येषु प्राणविद्याया:
प्रतिपादनं भूतमस्ति । प्रसिद्धोपनिषद् कठोपनिषदपि अनेनैव सम्बन्धितमस्ति ।
सामवेदस्यारण्यकग्रन्था: ---->
सामवेदसम्बन्धितौ द्वौ आरण्यकौ ग्रन्थौ स्त: - (१) छान्दोग्यारण्यकम् (२) तवल्कारारण्यकम्
छान्दोग्यारण्यकम् षष्ठप्रपाठकेषु विभक्त: वर्तते । एतस्य संबंन्ध: छन्दोगेन सहाऽस्ति । छन्दोगस्यार्थ:
भवति - सामवेदसंहिताया: मंत्राणां गायक: । इत्यस्मिन् ग्रन्थे छ्न्दोगस्य करणीयकार्याणां निर्देशोऽपि
भूतमस्ति । प्रसिद्धसामवेदीयोपनिषद्छान्दग्योपनिषद् एतस्यांश: वर्तते ।
अथर्ववेदस्यारण्यकग्रन्था: ---->
अथर्ववेदसंबन्धितकोप्यारण्यकग्रन्थोपलब्ध: न विद्यते ।
आरण्यकग्रन्थानामध्ययनेनेदमस्पष्टं भवति यत् उपनिषत्सु य: ज्ञानकाण्ड: प्राप्त: भवति , तस्य प्रारम्भ:
आरण्यकेषु एव भूताऽसीत् । ब्राह्मणग्रन्थेषु गृहस्थानां कृते कर्मकाण्डस्य विवेचनं वर्तते किन्तु वृद्धावस्थायां
यदा ते वॄद्धा: वनानामाश्रयग्रहणं कुर्वन्ति तु कर्मकाण्डस्य स्थले ते अन्यवस्तूनामध्ययनकरणस्य वा
व्यवहारस्यावश्यकता प्रतीता भवति । आरण्यकानि तेषां विषयाणां पूर्त्यर्थं कर्तार: ग्रन्था: सन्ति । डाँ
राधाकृष्णनानुसारेण आरण्यकग्रन्थाब्राह्मणविहितकर्मकाण्डोपनिषत्सु विहितदार्शनिकचिन्तनस्य
मध्यवर्तीसंक्रमणकालस्य श्रृङ्खला स्वरूपे वर्तते । अनेन प्रकारेण आरण्यकग्रन्थेषु प्राणविद्याया: एतादॄक्
अधिकचिन्तनमननञ्च भूतं यत् वेदमन्त्रद्र्ष्टार: ॠषय: स्वीकृतं सन्ति । उदाहरणतया - प्राणा: एव शयन-
काले वाक्चक्ष्वेन्द्रियनिगरणकारणात् गृत्स: इति कथ्यते । अत: प्राणापानसंयोग: एव गृत्समद इति वर्तते ।
अनेन प्रकारेण प्राणैव विश्वामित्रोऽस्ति ; हि प्राणदेवताया: भोग्यकारणात् सम्पूर्ण: विश्व: एव मित्रं वर्तते -
विश्व: मित्रं यस्य असौ विश्वामित्र: । प्राणावलोक्य वाकादिदैवै: कथितम् - अयम् अस्माकं वाम-वन्दनीय:
(स्तुत्य:) वर्तते ; हि अयम् अस्मासु श्रेष्ठ: वर्तते । अत: देवेषु प्राणैव वामदेव: वर्तते । प्राणैव सर्वविश्वं पापै:
त्रायत । अत: स अत्रि वर्तते -" सर्वं पाप्पनोऽत्रायत इति अत्रि: । गतिसम्पन्नभूतात् मनुष्यकायं वाज
इति कथ्यते ; तथा प्राणेत्यस्मिन्शरीरि प्रविष्टा: भूत्वा इदं रक्षति । अत: प्राणैव विभ्रद्वाज: (भारद्वाज:) वर्तते।
देवता: यदा प्राणा: अपश्यन् , तदा ते उक्तवन्त:- त्वमेव वशिष्ठ: असि ; हि प्राणैव सर्ववासहेतुरस्ति । अत: स:
वशिष्ठ: अस्ति । अनेन प्रकारेण अन्यान्यॠषय: अपि प्राणस्वरूपा: दृष्टा: । अनेन प्रकारेण वयमिदं पश्याम:
आरण्यकेषु तत्महानाध्यात्मिकतत्त्वानां सङ्केत: मिलति यानि तत्त्वानि उपनिषत्सु पुष्पितानि पल्लवितानि
च भूतानि ।
("प्रवीण कुमार द्विवेदी ")

AARNYAK